एकदन्तस्तोत्रम् - LATEST JOB ALERTS -->
Get Free job alerts in your Email Click Here

Posts Ad

Monday, February 25, 2019

एकदन्तस्तोत्रम्

एकदन्तस्तोत्रम्
मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः।
भृग्वादयश्च मुनयः एकदन्तं समाययुः ॥१॥
प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात्
तुष्टुवुर्हर्षसंयुक्ताः एकदन्तं गणेश्वरम् ॥२॥
सदात्मरूपं सकलादिभूत-
ममायिनं सोहमचिन्त्यबोधम्।
अनादिमध्यान्तविहीनमेकं
तमेकदन्तं शरणं व्रजामः ॥३॥
अनन्तचिद्रूपमयं गणेशं
ह्यभेदभेदादिविहीनमाद्यम्।
हृदि प्रकाशस्य धरं सुधीस्थं
तमेकदन्तं शरणं व्रजामः ॥४॥
विश्वादिभूतं हृदि योगिनां वै
प्रत्यक्षरूपेण विभान्तमेकं।
सदा निरालंबसमाधिगम्यं
तमेकदन्तं शरणं व्रजामः ॥५॥
स्वबिंबभावेन विलासयुक्तं
बिंबस्वरूपा रचिता स्वमाया।
तस्यां स्ववीर्यं प्रददाति यो वै
तमेकदन्तं शरणं व्रजामः ॥६॥
त्वदीयवीर्येण समर्थभूता
माया तया संरचितञ्च विश्वम्।
नादात्मकं ह्यात्मतया प्रतीतं
तमेकदन्तं शरणं व्रजामः ॥७॥
त्वदीयसत्ताधरमेकदन्तं
गणेशमेकं त्रयबोधितारम्।
सेवन्त आपुस्तमजं त्रिसंस्था-
स्तमेकदन्तं शरणं व्रजामः ॥८॥
ततस्त्वया प्रेरित एव नाद-
स्तेनेदमेवं रचितं जगद्वै ।
आनन्दरूपं समभावसंस्थं
तमेकदन्तं शरणं व्रजामः ॥९॥
तदेव विश्वं कृपया तवैव
संभूतमाद्यं तमसा विभातम्।
अनेकरूपं ह्यजमेकभूतं
तमेकदन्तं शरणं व्रजामः ॥१०॥
ततस्त्वया प्रेरितमेव तेन
सृष्टं सुसूक्ष्मं जगदेकसंस्थम् ।
सत्त्वात्मकं श्वेतमनन्तमाद्यं
तमेकदन्तं शरणं व्रजामः ॥११॥
तदेव स्वप्नं तमसा गणेश
संसिद्धिरूपं विविधं बभूव।
सदेकरूपं कृपया तवापि
तमेकदन्तं शरणं व्रजामः ॥१२॥
संप्रेरितं तच्च त्वया हृदिस्थं
तथा सुसृष्टं जगदंशरूपम्
तेनैव जाग्रन्मयमप्रमेयं
तमेकदन्तं शरणं व्रजामः ॥१३॥
जाग्रत्स्वरूपं रजसा विभातं
विलोकितं त्वत्कृपया यदैवम्।
तदा विभिन्नं भवतेकरूपं
तमेकदन्तं शरणं व्रजामः ॥१४॥
एवञ्च सृष्ट्वा प्रकृतस्वभावा-
त्तदन्तरे त्वञ्च विभासि नित्यम्।
बुद्धिप्रदाता गणनाथ एक
स्तमेकदन्तं शरणं व्रजामः ॥१५॥
त्वदाज्ञया भान्ति ग्रहाश्च सर्वे
नक्षत्ररूपाणि विभान्ति खे वै।
आधारहीनानि त्वया धृतानि
तमेकदन्तं शरणं व्रजामः ॥१६॥
त्वदाज्ञया सृष्टिकरो विधाता
त्वदाज्ञया पालक एव विष्णुः।
त्वदाज्ञया संहरको हरोऽपि
तमेकदन्तं शरणं व्रजामः ॥१७॥
यदाज्ञया भूर्जलमध्यसंस्था
यदाज्ञयापः प्रवहन्ति नद्यः।
सीमां सदा रक्षति वै समुद्र-
स्तमेकदन्तं शरणं व्रजामः ॥१८॥
यदाज्ञया देवगणो दिविस्थो
ददाति वै कर्मफलानि नित्यम्।
यदाज्ञया शैलगणोऽचलो वै
तमेकदन्तं शरणं व्रजामः ॥१९॥
यदाज्ञया शेष इलाधरो वै
यदाज्ञया मोहप्रदश्च कामः।
यदाज्ञया कालधरोऽर्यमा च
तमेकदन्तं शरणं व्रजामः ॥२०॥
यदाज्ञया वाति विभाति वायु-
र्यदाज्ञयाग्निर्जठरादिसंस्थः।
यदाज्ञया वै स चराचरञ्च
तमेकदन्तं शरणं व्रजामः ॥२१॥
सर्वान्तरे संस्थितमेकगूढं
यदाज्ञया सर्वमिदं विभाति।
अनन्तरूपं हृदि बोधकं वै
तमेकदन्तं शरणं व्रजामः ॥२२॥
यं योगिनो योगबलेन साध्यं
कुर्वन्ति तं कः स्तवनेन स्तौति।
अतः प्रणामेन सुसिद्धिदोऽस्तु
तमेकदन्तं शरणं व्रजामः ॥२३॥
  
एवं स्तुत्वा च प्रह्लाद!
देवास्समुनयश्च वै।
तूष्णींभावं प्रपद्यैव ननृतुर्हर्षसंयुताः ।।२४॥
स तानुवाच प्रीतात्मा ह्येकदन्तः स्तवेन वै।
जगाद तान् महाभागान् देवर्षीन् भक्तवत्सलः॥२५॥
प्रसन्नोऽस्मि च स्तोत्रेण सुराः सर्षिगणाः किल।
वृणुत वरदोहं हे दास्यामि मनसेप्सितम् ॥२६॥
भवत्कृतं मदीयं वै स्तोत्रं प्रीतिप्रदं मे
भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥२७॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठकः
पुत्रपौत्रादिकं सर्वं लभते धनधान्यकम् ॥२८॥
गजाश्वादिकमत्यन्त राज्यभोगं लभेत् ध्रुवम्।
भुक्तिं मुक्तिं च योगं वै लभते शन्तिदायकम् ॥२९॥

Post a Comment